________________
मूलाचारे
४३६ नचारित्राणां त्रिप्रकाराणां एष उपदेशोऽस्माकिमधिक यत्माः यते । इति एषा च सामाधिवोधिप्रार्थना भक्तिर्भवति यतः ॥
अत पाह:मचीए जिणवराणं खीयदिजंपुव्वसंचियं कम्मं । आयरियपसाएण य विजा मंता य सिज्झंति॥ भक्त्या जिनवराणां क्षीयते यत् पूर्वसंचितं कर्म । आचार्यप्रसादेन च विद्या मंत्राश्च सिद्ध्यंति ॥ ७२ ॥
जिनवराणां भक्त्या पूर्वसंचित कर्म क्षीयते विनश्यते यः स्माद् प्राचार्याणां च भक्तिः किमर्थ ? प्राचार्याणां च प्रसादेन विद्या मंत्राश्च सिद्धिमुपगच्छंति यस्मादिति तस्माजिनानामाचार्याणां च भक्तिरियं न निदानमिति ॥७२॥
अन्यच;अरहंतेसु य राओ ववगदरागेसु दोसरहिएसु। धम्ममि य जो राओसुदेय जो बारसविधमि॥ अर्हत्सु च रागः व्यपगतरागेषु दोषरहितेषु । धर्मे च यः रागः श्रते च योद्वादशविधे ॥ ७४॥ ___. व्यपगतरागेष्वष्टादशदोषरहितेषु अर्हत्सु यः रागः या. भक्तिस्तथा धर्मे यो रागस्तथा श्रुते द्वादश विधे यः रागः ॥७३॥ तथा--