________________
षडावश्यकाधिकारः ॥७॥ ४२७ भावो नाम परिणामः पर्यायलोकः एवं चतुर्विध पर्यायलोकं. समासेन जानीहीति ॥५४॥
उद्योतस्य स्वरूपमाहउज्जोवो खलु दुविहोणादवोदव्वभावसंजुचो। दव्वुज्जोवोअग्गी चंदो सूरो मणी चेव ॥५५॥ उद्योतः खलु द्विविधः ज्ञातव्यः द्रव्यभावसंयुक्तः। द्रव्योद्योतः अग्नि: चंद्रः सूर्यो माणश्चैव ॥ ५५ ॥
उद्योतः प्रकाशः खलु द्विविधः स्फुटं ज्ञातव्यो द्रव्यभावभेदेन । द्रव्यसंयुक्तो भावसंयुक्तश्च । तत्र द्रव्योद्योतोऽग्नि- . श्चन्द्रः सूर्यो मणिश्च । एवकारः प्रकारार्थः। एवंविधोऽन्योऽपि द्रव्योद्योतो ज्ञात्वा वक्तव्य इति ॥ ५५ ॥ भावोद्योतं निरूपयवाहभावुज्जोवो णाणं
जह भणियं सबभावदरिसीहि । तस्स दुपयोगकरणे
भावुज्जोवोति णादव्वो॥५६॥ भावोद्योतो ज्ञानं यथा भाणितं सर्वभावदर्शिभिः। तस्य तु उपयोगकरणे भावोद्योत इति ज्ञातव्यः॥