________________
४२०
भूलाचारेदृश्यते यस्मात्तस्माल्लोकः । अथवा मनःपर्ययज्ञानेन प्रलो. क्यते विशेषेण रूपेण दृश्यते यस्माचस्माल्लोकः । अथवा केवलज्ञानेन जिनः कृत्स्नं यथा भवतीति तथा संलोक्यते स. द्रव्यपर्यायैः सम्यगुपलभ्यते यस्मात्तस्माल्लोकः । तेन का रणेन लोकः स इत्युच्यत इति ॥४३॥
नवप्रकारनिक्षेपर्लोकस्वरूपमाहणाम ट्ठवणं दबं खत्तं चिण्हं कसायलोओ य । भवलोगो भावलोगो पजयलोगो य णादबो॥ नाम स्थापना द्रव्यं क्षेत्रं चिन्हं कषायलोकश्च । भवलोको भावलोकः पर्यायलोकश्च ज्ञातव्यः॥४४॥
नात्र विभक्तिनिर्देश प्राधान्यं प्राकृतेऽन्यथापि वृत्तेः। लोकशब्दः प्रत्येकममिसम्मध्यते । नामलोकः स्थापनालोको द्रव्यलोकः क्षेत्रलोकश्चिन्हलोकः कषायलोको भवलोको भा. वलोकः पर्यायलोकश्च ज्ञातव्य इति ॥ ४४ ॥
तत्र नामलोकं विवृण्वन्नाहणामाणि जाणि काणिचि सुहासुहाणि लोगरि । णामलोगवियाणाहि अणंतजिणदेसिदं॥४५ नामानि यानि कानिचित् शुभाशुभानि लोके । नामलोकं विजानीहि अनंतजिनदर्शितं ॥