________________
षडावश्यकाधिकारः ॥७ ॥
४१६
एवं स्तवः क्रियते । अर्हन्तो लोकोद्योतकरा धर्मतीर्थकरा जिनवराः केवलिन उत्तमाश्च ये तेषां कीर्तनं प्रशंसनं बोधि महयं दिशतु प्रयच्छतु । अथवा एते अर्हतो धर्मतीर्थकरा लोकोद्योतकराः जिनवराः कीर्तनीया उत्तमाः केवलिनो मम बोधि दिशन्तु । अथवा अर्हन्तः सर्वविशेषेण ( पणेन ) विशिष्टाः केवलिनां च कीर्तनं मह्यं बोधिं प्रयच्छन्त्विति सम्बन्धः ॥ ४२ ॥
एतैर्दशभिरधिकारैश्चतुर्विंशतिस्तवो व्याख्यायत इति कुत्वादौ तावल्लोकनिरुक्तिमाह
लोयदि आलोयदि पलो यदि सल्लोयदित्ति एगत्थो । जह्मा जिणेहिं कसिणं तेणेसो वुच्चदे लोओ ॥ ४३ ॥ लोक्यते आलोक्यते प्रलोक्यते संलोक्यते इति एकार्थः यस्माज्जनैः कृत्स्नं तेन एष उच्यते लोकः ॥ ४३ ॥
लोक्यते श्रालोक्यते प्रलोक्यते संलोक्यते दृश्यते इत्येकार्थः । कैजिनैरिति तस्माल्लोक इत्युच्यते ? कथं छद्मस्थावस्थायां - मतिज्ञानश्रुतज्ञानाभ्यां लोक्यते दृश्यते यस्मात्त*मालोकः । अथवावधिज्ञानेनालोक्यते पुद्गलमर्यादारूपेणा