________________
षडावश्यकाधिकारः ॥७॥ नाति तां सामायिकं जानीहि । अथवा समवृत्ति समवायं, द्र. व्यगुणपर्यायाणां समवृत्ति, द्रव्यं गुणविरहितं नास्ति गुणाश्च द्रव्यविरहिता न सन्ति पर्यायाश्च द्रव्यगुणरहिता न सन्ति । एवंभूतं समत्ति समवायं सद्भावरूपं न संवृत्तिरूपं, न कल्पनारूपं, नाप्यविद्यारूपं, स्वतः सिद्धं न समवायद. व्यबलेन यो जानाति तं सामायिक जानीहीति सम्बन्धः ।।
सम्यक्त्वचारित्रपूर्वकं सामायिकमाहरागदोसो णिरोहिचा समदा सबकम्मसु । सुत्चेसुअपरिणामोसामाइयमुत्तमं जाणे॥२२॥ रागद्वेषौ निरुद्ध्य समता सर्वकर्मसु । सूत्रेषु च परिणामः सामायिकमुत्तमं जानीहि ॥२२॥
रागद्वेषौ निरुध्य सर्वकर्मसु सर्वकर्तव्येषु या समता, सू. त्रेषु च द्वादशांगचतुर्दशपूर्वेषु च यः परिणामः श्रद्धानं सामायिकमुत्तमं प्रकृष्टं जानीहि ॥ २२ ।।
तपःपूर्वकं सामायिकमाहविरदो सब्बसावजं तिगुत्तो पिहिदिदिओ। जीवो सामाइयं णाम संजमट्ठाणमुत्तमं ॥२३॥ विरतः सर्वसावधं त्रिगुप्तः पिहितोंद्रियः। जीवः सामायिकं नाम संयमस्थानमुत्तमं ॥ २३॥