________________
०६ . मूलाचारेयःजानाति समवायं द्रव्याणां गुणानां पर्यायाणांच। सद्भावं तं सिद्ध सामायिकमुत्तमं जानीहि ॥ २१ ॥ - पूर्वगाथाभ्यां सम्यक्त्वसंयमयोः समागमनं व्याख्यातं अनया पुनर्गाथया ज्ञानसमागमनमाचष्टे । यो जनाति समवायं सादृश्यं स्वरूपं वा द्रव्याणां, द्रव्यसमवायं क्षेत्रसमवायं कालसमवायं भावसमवायं च जानाति । तत्र द्रव्यसमवायो नाम धर्माधर्मलोकाकाशैकजीवप्रदेशाः समाः। क्षेत्रसमवा. यो नाम सीमन्तनरकमनुष्यक्षेत्रर्जुविमानसिद्धालयाः समाः । कालसमवायो नाम समयः समयेन समः, अवसर्पिगयुत्सपिगया समेत्यादि । भावसमवायो नाम केवलज्ञानं केवलदर्शने न समिति । गुणा रूपरसगन्धस्पर्शज्ञातृत्वष्ट्रवादयस्तेषां समानतां जानाति । अथवौदायकोपशमिकक्षायोपशमिकपारिणामिकगुणास्तेषां समानतां जानाति । पर्याया नारकत्वमनुष्यत्वतिर्यक्त्वदेवत्वादयस्तेषां समानतां जानाति । द्रव्याधारत्वेनापृथग्वतित्वेन च गुणानां समवायः । पर्यायाणां उ. त्पादविनाशध्रौव्यत्वेन समवायो भावसमवायो गुणेष्वन्तर्भवति । क्षेत्रसमवायः पर्यायवन्तर्भवति । कालसमवायो द्रव्यसमवायेऽन्तर्भवतीति । द्रव्यसमवायं गुणसमवाय पर्यायसमवायं च यो जानाति तेषां सिद्धि सद्भाव निष्पन्नं परमार्थरूपं च यो जानाति तं संयतं सामायिकमुत्तमं जानीहि । अथवा द्रष्याणां समवायं सिद्धि, गुणपर्यायाणां च सद्भावं यो जा.