________________
मूलाचार टोत्तरशताधुच्छ्वासपरिमाणेन। उत्तकालम्हि-उक्तः प्रतिपादितः काल: समय उक्तकालस्तस्मिन्नुक्तकाले आत्मीयात्मीयवेलायां । यो यस्मिन् काले कायोत्सर्ग उक्तः स तस्मिन् कर्तव्यः । जिणगुणचिंतणजुत्तो-जिस्य गुणा जिनगुणास्तेषां चिन्तनं स्मरणं तेन युक्तो जिनगुणचिंत्तनयुक्तः, दयातमासम्यग्दर्शनज्ञानचारित्रशुक्लध्यानधर्मध्यानानन्तज्ञानादिचतुष्टयादिगुणभावनासहितः । का मस्सग्गो-कायोत्सर्गः । तणुविसग्गो-तनोःशरीरस्य विसर्गस्तनुविसर्गों देहे ममत्वस्य परित्यागः । दैवसिकादिषु नियमेषु यथोक्तकाले योऽयं यथोक्तमानेन जिनगुणचिन्तनयुक्तस्तनुविसर्गः स कायोत्सर्ग इति ।
लोच उक्तः स कथं क्रियते इत्यत आहवियतियचउकमासे लोचो उक्कस्समज्झिमजहण्णो सपडिक्कमणे दिवसे उववासेणेव कायवो ॥२९॥ द्वित्रिचतुष्कमासे लोचः उत्कृष्टमध्यमजघन्यः। सप्रतिक्रमणे दिवसे उपवासेनैव कर्तव्यः ॥ २९॥
वियतियचउक्कमासे-द्वौ च त्रयश्च चत्वारश्न द्वित्रिच. त्वारस्ते च ते मासाश्च द्वित्रिचतुर्मासास्तेषु द्वित्रिचतुर्मासेषु, मासशब्दः प्रत्येकं अभिसम्बध्यते द्वयोर्भासयोः, त्रिषु मासेषु चतुधू मासेषु वा सम्पूर्णेषु असंपूर्णेषु वा । द्वयोसियोरतिक्रान्तयोः सतोर्वा । त्रिषु मासेषु अतिक्रान्तेष्वनतिक्रान्तेषु सत्सु वा।