________________
मूलगुणाधिकारः ।
३५
तत्
परिवर्जनं श्रागते चोपस्थिते च यदेतद्दोषपरिवर्जनं तत्प्रत्याख्यानं ज्ञातव्यमिति । अथवा दूरे भविष्यति काले बागमिष्यति चासन्ने वर्तमाने तेषां षण्णामपि अयोग्यानां वर्जनं प्रत्याख्यानम् । अथवा अनागते काले अयोग्य परिवर्जन नामादिषट्कारं यदेतदागतं मनोवचनकायैः तत्मत्याख्यानं ज्ञातव्यमिति । अथ प्रतिक्रमणप्रत्याख्यानयोः को वि शेष इति चेन्नैष दोष:, अतीतकालदोषनिहरण प्रतिक्रमणम् | अनागते वर्तमाने च काले द्रव्यादिदोषपरिहरणं प्रत्याख्यानमनयोर्भेदः । तपोऽर्थ निरवद्यस्यापि द्रव्यादेः परित्यागः प्रत्याख्यानं, प्रतिक्रमणं पुनर्दोषाणां निर्हरणायैवेति || कायोत्सर्गस्वरूपनिरूपणार्थमाह
देवस्सियणियमादिसु जहुत्तमाणेण उत्तकालम्हि । जिणगुणचिंतणजुत्तो का उसग्गो तणुविसग्गो ||
दैवसिकनियमादिषु यथोक्तमानेन उक्तकाले । जिनगुणचिंतनयुक्तः कायोत्सर्गः तनुविसर्गः ॥२८॥
देवस्सियणियमादिसु - दिवसे भवो दैवसिकः स यादियेषां ते देवसिकादयस्तेषु दैवसिकरात्रिकपाक्षिकचातुर्मासिकसांवत्सरिकादिषु नियमेषु निश्चयक्रियासु । जहुत्तमाणेणउक्तमनतिक्रम्य यथोक्तं, यथोक्तं च तन्मानं च यथोक्तमान तेन श्रहेत्प्रणीतेन कालप्रमाणेन पंः विंशतिसप्तविंशत्य