________________
मूलाचारे
नामादीनां षण्णां अयोग्यपरिवर्जनं त्रिकरणैः । प्रत्याख्यानं ज्ञेयं अनागतं चागमे काले ॥ २७ ॥
३४
णामादीणं - जातिद्रव्यगुणक्रियानिरपेक्षं संज्ञाकरणं नामाभिधानं तदादिर्येषां ते नामादयस्तेषां नामस्थापनाद्रव्य क्षेत्रकालभावानाम् । छगृहं – पण्णाम् | अजोगपरिवज्जांन योग्या अयोग्यास्तेषां नामादीनामयोग्यानां पापागमहेतूनां परिवर्जनं परित्यागः । तियरणेण त्रिकरणैः शुभमनोवाक्कायक्रियाभिः अशुभाभिधानं कस्यचिन्न करोमि, न कारयामि, नानुमन्ये, तथा वचनेन न वच्पि, नापि काथयामि नाप्यनुमन्ये, तथा मनसा न चिन्तयामि नाप्यन्यं भावयामि, नानुमन्ये । एवं अशुभस्थापनामेनां कायेन न करोमि, न कारयामि, नानुमन्ये, तथा वाचा न भणामि, न भाणयामि, नानुमन्ये, तथा मनसा न चितयामि नाप्यन्यं भावयामि, नानुमन्ये । तथा सावधं द्रव्यं क्षेत्रं कालं भावं च न सेवे, न सेवयामि, सेवन्तं नानुमन्ये । तथा वचसा त्वं सेवस्वेति न भणामि, न भाणयामि, नापि चिन्तयामीति पच्चक्खाणं प्रत्याख्यानं परिहरणं अयोग्यग्रहणपरित्यागः । णेयं - ज्ञातव्यम् | अणागयं च - अनागतं चानुपस्थितं च अथवा अनागते दूरेणागते काले । आगमे-भागते उपस्थिते । अथवा आगमिष्यति काले सन्निकृष्टे काले मुहूर्त दिवसादिके । नामस्थापनाद्रव्यक्षेत्रकालभावानां पराणां अनागतानां त्रिकरणैर्यदे