________________
मूलगुणाधिकारः।
३७ चतुर्यु मासेषु पूर्णेष्वपूर्णेषु वा नाधिकेषु इत्याध्याहारः कार्यः सर्वसूत्राणां सोपस्कारत्वादिति । लोचो-लोचः बालोत्पाटनं हस्तेन मस्तककेशश्मश्रूणामपनयनं जीवसम्मूछनादिपरिहारार्थ रागादिनिराकरणार्थ स्ववीर्यप्रकटनार्थ सर्वोत्कृष्टतपश्चरणार्थ लिंगादिगुणज्ञापनार्थ चेति। उक्कस्स-उत्कृष्टः, अत्यर्थमाचरणार्थभिप्रायः । मज्झिम-मध्यमः अजघन्योत्कृ
जहरण-जघन्यः मन्दाचरणाभिप्रायः । सपडिक्कमणे-समतिक्रपणे सह प्रतिक्रमणेन वर्तते इति सप्रतिक्रमणस्तस्मिन्सपतिक्रमणे । दिवसे-अहोरात्रमध्ये । उबवासेण-उपवासेन अशनादिपरित्यागयुक्तेन । एवकारोऽवधारणार्थः। कायव्वो कर्तव्यः निर्वतनीयः । लोचस्य निरुक्तिनॊक्ता सर्वस्य प्रसिद्धो यतः। समतिक्रमणे दिवसे पाक्षिकचातुर्मासिकादौ उपवासेनैव दूयोर्मासयोर्यत् केशश्मभूत्पाटनं स उत्कृष्टो लोचः। त्रिषु मासेषु मध्यमः, चतुर्षु मासेषु जघन्यः । अथवा विधानमेतत्, एतेषु कालविशेषेषु एवं विशिष्टो लोचः कर्तव्यः । एवकारेणोपवासे लोचोऽवधार्यते न दिवसः, तेन प्रतिक्रमणरहितेऽपि दिवसे लोचस्य सम्भवः । अथवा सप्रतिक्रमणे दिवसे इत्यनेन किमुक्तं भवति लोचं कृत्वा प्रतिक्रमणं कर्तव्यमिति । ढुंचधातुरपनयने वर्तते तच्चापनयनं तुरादिनापि सम्भवति तकिमर्थमुत्पाटनं मस्तके केशानां श्मश्रूणां चेति चेन्नैष दोषा, दैन्यवृत्तियाचनपरिग्रहपरिभवादिदोषपरित्यागादिति ॥