________________
४०४
मूलाचारे
भृतवर्तमानभविष्यभेदेन । भूतमपि त्रिविधं च्युतच्या वितत्यक्तभेदेन । सामायिकपरिणतजीवाधिष्ठितं क्षेत्रं क्षेत्रसामायिकं नाम । यस्मिन् काले सामायिकं करोति स काल: पूर्वाग्रहादिभेदभिन्नः कालसामायिक। भावसामायिक द्विविधं, भागमभावसामायिक, नोआगमभावसामायिकं चेति । सामायिकवर्णनमाभृतज्ञाय्युपयुक्तो जीव भागमभावसामायिक नाम, सामायिकपरिणतपरिणामादि नोभागमभावसामायिक नाम । तथैषां मध्ये भागमभावसामायिकेन नोयागमभावसामायिकेन च प्रयोजनमिति ॥ १७ ॥
निरुक्तिपूर्वकं भावसामायिक प्रतिपादयन्नाहसम्मत्तणाणसंजमतवेहिं जंतं परुत्थसमगमणं । समयंतु तंतु भणिदं तमेव सामाइयं जाण॥१८॥ सम्यक्त्वज्ञानसंयमतपोभिः यत्तत् प्रशस्तसमागमनं समयस्तु स तु भणितस्तमेव सामायिक जानीहि १८ - सम्यक्त्वज्ञानसंयमतपोभिर्यत्तत् प्रशस्तं समागमनं प्रापणं तैः सहैक्यं च जीवस्य यत् समयस्तु समय एव भणितस्तमेव सामायिक जानीहि ॥ १८॥ तथा य:
जिदउवसग्गपरीसह ___उवजुत्तो भावणासु समिदीसु।