________________
षडावश्यकाधिकारः ॥ ७॥
४०३ नाः सुस्थिताः सुप्रमाणा: सर्वावयवसम्पूर्णाः सद्भावरूपा मन पाल्हादकारिण्य: काश्चन पुनः स्थापना दुस्थिताः प्र. माणरहिताः सर्वावयवैरसम्पूर्णाः सद्भावरहितास्तास्ता (सू) उपरि रागद्वेषयोरभावः स्थापनासामायिकं नाम । सुवर्णरजतमुक्ताफलमाणिक्यादिमृत्तिकाकाष्ठलोष्ठकंटकादिषुसमदर्शन रागद्वेषयोरभावो द्रव्यसामायिक नाम । का निचित् क्षेत्राणि रम्याणि आरामनगरनदीकूपवापीतडागजनपदोपचितानि, कानिचिच्च क्षेत्राणि रूक्षकंटकविषमविरसास्थिपाषाणसहितानि जीर्णाटवीशुष्कनदीमरुसिकतापुंजादिबाहुल्यानि तेषूपरि रागद्वेषयोरभावः क्षेत्रसामायिकं नाम । प्राकृड्वर्षा हैमन्तशिशिरवसन्तनिदाघाः षड्ऋतवो गत्रिदिवसंशुक्लपक्षकृष्णपक्षाः कालस्तेषूपरि रागद्वेषवर्जनं कालसामायिकं नाम । सर्वजीवेषपरि मैत्रीभावोऽशुभपरिणामवर्जनं भावसामायिकं नाम । अथवा जातिद्रव्यगुः णक्रियानिरपेक्ष संज्ञाकरणं सामायिकशब्दमानं नामसामायिके नाम । सामायिकावश्यकेन परिणतस्याकृतिमत्यनाकृतिमति च वस्तुनि गुणारोपणं स्थापनासामायिकं नाम । द्रव्यसामायिक विविध आगमद्रव्यसामायिकं नोआगमद्रव्यसामायिकं चेति । सामायिकवर्णनपाभृतज्ञायी अनुपयुक्त प्रा., गमद्रव्यसामायिकं नाम । नोआगमद्रव्यसामायिकं त्रिविधं सामायिकवर्णनमाभृतज्ञायकशरीरसामायिकमाभूतभविव्यज्ज्ञायकजीवतद्वयतिरिक्तभेदेन । ज्ञायकशरीरमिति त्रिविध