________________
मूलाचारेसामायिकनियुक्तिं वक्ष्ये यथाक्रमं समासेन । आचार्यपरंपरया यथागतं आनुपूर्व्या ॥ १६ ॥ . सामायिकनियुक्तिं सामायिकनिरवयवोपायं वक्ष्ये यथाक्रमं समासेनाचार्यपरंपरया यथागतमानुपूर्व्या । अधिकारक्रमेण पूर्व यथानुक्रमं सामायिककथनविशेषणं पाश्चात्यानुपूर्वीग्रहण, यथागतविशेषणमिति कृत्वा न पुनरुक्तदोषः ।
सामायिकनियुक्तिरपि षट्पकारा तामाहणामढवणा दवे खेत्ते काले तहेव भावे य । सामाइयामि एसोणिक्खेओछविओ णेओ १७ नाम स्थापना द्रव्यं क्षेत्रं कालस्तथैव भावश्च । सामायिके एषः निक्षेपः षड्विधो ज्ञेयः॥ १७ ॥ - अथवा निक्षेपविरहित शास्त्रं व्याख्यायमानं वक्तुः श्रो. तुश्चोत्पथोत्थानं कुर्यादिति सामायिकनियुक्तिनिक्षेपो वर्यते-नामसामायिकनियुक्तिः, स्थापनासामायिकनियुक्तिः, द्र. न्यसामायिकनियुक्तिः, क्षेत्रसामायिकनियुक्तिः, कालसामायिकनियुक्तिः, भावसामायिकनियुक्तिः, । नामस्थापनाद्रव्यक्षेत्रकालभावभेदेन सामायिक एष निक्षेप उपायः षट्पकारो भवति ज्ञातभ्यः । शुभनामान्यशुभनामानि च श्रु. स्वा रागद्वेषादिवर्जनं नामसामायिकं नाम । काश्चन स्थाप