________________
३८
मूलाचारेबारसंगे जिणक्खादं सज्झायं कथितं बुधे।। उवदेसइ सज्झायं तेणुवज्झाउ उच्चदि ॥१०॥ द्वादशांगानि जिनाख्यातानि स्वाध्यायः कथितो बुधैः उपदिशति स्वाध्यायं तेनोपाध्याय उच्यते ॥१०॥ ... द्वादशांगानि जिनाख्यातानि जिनःप्रतिपादितानि स्वाध्याय इति कथितो बुधैः पंडिनस्तं स्वाध्यायं द्वादशाशचतु. देशपूर्वरूपं यस्मादुपदिशति प्रतिपादयति तेनोपाध्याय इत्यु. च्यते । तस्योपाध्यायस्य नमस्कारं यः करोति प्रयत्नमतिः स सर्वदुखमोक्ष प्राप्नोत्यचिरेण कालेनेति ॥ १०॥
साधूनां निरुक्तितो नमस्कारमाहणिव्वाणसाधए जोगे सदा जुजति साधवो। समा सम्बेसु भुदेसुतह्मा ते सव्वसाधवो ॥ ११ ॥ निर्वाणसाधकान् योगान् सदा युजंति साधवः । समाः सर्वेषु भूतेषं तस्मात् ते सर्वसाधवः ॥११॥ ___यस्मानिर्वाणसाधकान् योगान् मोक्षप्रापकान मूलगुणादितपोऽनुष्ठानानि सदा सर्वकालं रत्रिंदिवं युजन्ति तैरात्मान योजयन्ति साधवः साधुचरितानि । यस्माच समा: समत्वमापन्नाः सर्वभूतेषु सकलजीवेषु तस्मात्कारणात्ते सर्वसाघव इत्युच्यन्ते । तेषां सर्वसाधूनां नमस्कार भावेन यः करो