________________
मूलाचारेघमिदन जीवलोहे
वावीसपरीसहग्गाहि ॥७॥ आवेशनी शरीरं इंद्रियभांडानि मनो वा आकरी। ध्मातव्यं जीवलोहं द्वाविंशतिपरीषहाग्निभिः ॥७॥
भावेसनी चुल्ली यत्रांगारणि क्रियते । शरीरे किंविशिटे, आवेशनीभूते । इन्द्रियाययेव भाण्डमुपस्कारभूतं सदंशकाभीरणी हस्तकूटयनादिकं । मनस्त्वाकरी चेता उपाध्यायो लोहकारः । मातव्यं दाय निर्मलीकर्तव्यं । जीवलोहं जीवधातुः । द्वाविंशतिपरीषहाग्निना । एवं द्वाविंशतिपरीषहा. ग्निना कर्मबन्धे ध्वस्ते चुल्लीकृतं शरीरं त्यक्त्वेन्द्रियाणि चोपकरणभूतानि परित्यज्य निर्मलीभूतं जीवसुवर्ण गृहीत्वा मनः केवलज्ञानमाकरी सिद्धत्वमुपगच्छति सिद्धो भवतीति सम्बन्धः । तस्मात सिद्धत्वयुक्तानां सिद्धानां नमस्कारं मावेन यः करोति प्रयत्नमतिः (स) सर्वदुःखमोक्षं प्राप्नात्यचिरेण कालेनेति ॥ ७॥ ..
आचार्यस्य निरुक्तिमाहसदाआयारबिद्दण्हू सदा आयरियं चरे। आयारमायारवंतो आयरिओ तेण उच्चदे ॥८॥ सदा आचारवित् सदा आचरितं चरः।