________________
३८
मूलाचारनस्यान्तरायः । तथाऽमेव्यमशुचि तेन पादादिकं यल्लिप्त तदप्यमेष्यतिति साहचर्यात, अमेध्य नामान्तरायः । तथा हार्दिवमनमात्मनो यदि भवति । तथा रोषनं यदि कश्चिद्धरगादिकं करोति । तथा रुधिरमात्मनोऽन्यस्य वा यदि पश्यति । चशब्देन पूयादिकं च ग्राह्यं । तथाऽश्रुपातो दुःखेनास्मनो यद्यश्रृण्यागच्छन्ति परेषामपि सनिकृष्टानां यद्ययं दोषो भवेत् । तथा जान्वधा प्रामों जान्वधः परामर्शः । तथा जानपरि व्यतिक्रमश्चैव । सर्वत्रान्तरायेण सम्बन्ध इति । तथागाभिअघोणिग्गमणंपञ्चक्खियसेवणाय जंतुवहो कागादिपिंडहरणं पाणीदो पिंडपडणं च ॥७७॥ नाभ्यधोनिर्गमनं प्रत्याख्यातसेवना चजंतुवधः। काकादिपिंडहरणं पाणितः पिंडपतनं च ॥ ७७॥
नाभ्यधो निर्गमनं नाभेरधो मस्तकं कृत्वा यदि निर्गमनं भवेत् । तथा प्रत्याख्यातस्य सेवना च, अवग्रहो यस्य वस्तुनस्तस्य यदि भक्षणं स्यात् । तथा जन्तुवधः आत्मनोऽ. न्येन वा पुरतो जीववधो यदि क्रियते । तथा काकादिभिः पिंडहरणं यदि काकादयः पिण्डमपहरन्ति । तथा पाणिपात्रापिण्डपतनं भुंजानस्य पाणिपुटादि पिस्डो ग्रासमानं वा पतति ॥ ७७॥ तथापाणीएजतुवहो मंसादीदंसणे य उवसग्गो।