________________
मूलाचारमत्स्यास्तस्मिन्नेव मण्डूका अपि तथापि ते न विपद्यन्ते तदेतोरभावात् । एवं परार्थे कृते भक्षादिके प्रवर्तमानोऽपि यतिविशुद्धस्तद्गतेन दोषेण न लिप्यते । कुटुम्बिनोऽधाकर्मादिदो. षेण गृह्यन्ते न साधवः । तेन कुटुम्बिनः साधुदानफलेन तं दोषमपास्य स्वर्गगामिनो मोक्षगामिनश्च भवन्ति सम्यग्दृष्टयः, मिथ्यादृष्टयः पुनर्भोगभुवमवाप्नुवंति न दोष इति ॥ ६७ ॥
भावतः शुद्धमाहआधाकम्मपरिणदो
फासुगदव्वेवि बंधओ भणिओ। सुद्धं गयेसमाणो
आधाकम्मेवि सो सुद्धो ॥६८॥ अधःकर्मपारणतः प्रासुकद्रव्येपि बंधको भणितः । शुद्धं गवेषयमाणः अधःकर्मण्यपि स शुद्धः ॥ ६८ ॥ ., . प्रासुके द्रव्ये सति यद्यधःकर्मपरिणतो भवति साधुयद्यात्मार्थ कृतं मन्यते गौरवेण- तदासौ बन्धको भणित: को बध्नाति शुद्धं पुनर्गवेषयमाणोऽध:कर्मविशुद्धं कृतकारितानुपतिरहितं यत्नेन पश्यनधःकर्मणि सत्यपि शुद्धोऽसौ यद्यप्यधःकर्मणा निष्पन्नोऽसावाहारस्तथापि साधोर्न बंध. हेतुः कृतादिदोषाभावादिति ।। ६८॥