________________
· पिंडशुद्धपधिकारः ॥६॥ षड्भिः कारणैः अशनं आहरन्नपि आचरति धर्म । षड्भिः चैव कारणैःतु उज्झन्नपि आचरति ॥ ५९ ॥
षभिः कारणैः प्रयोजनस्तु निरवशेषमशनमाहारं भोज्यखाद्यलेह्यपेयात्मकमभ्यवहरन्नपि भुंजानोऽप्याचरति चेष्टयति-अनुष्ठानं करोति धर्म चारित्रं । तथैव षड्भिः कारणैःप्र. योजनैस्तु निरवशेष जुगुप्सनपि परित्यजन्नप्याचरति प्रति पालयति धर्ममिति संबंधः । निष्कारणं यदि भुंक्ते भोज्यादिक तदा दोषा, कारणैः पुन जानोऽपि धर्ममाचरति साधुर रिति सम्बन्धः । तथापरैः प्रयोजनैः परित्यजन्नपि भोज्या. दिक धर्ममेवाचाति नाशनपरित्यागे दोषः सकारणत्वात्परि. त्यागस्येति ॥ ५६ ॥
कानि तानि कारणानि (क्तेऽशनमित्याशंकायामह-' वेणयवेजावच्चे किरियाठाणे य संजमदठाए। तध पाणधम्मचिंता कुन्जा एदेहिं आहारं॥६०॥ वेदनावैयावृत्त्ये क्रियार्थं च संयमार्थ । तथा प्राणधर्मचिंता कुर्यात् एतैः आहारं ॥ ६ ॥ , वेदनां क्षुद्वेदनामुपशमयामीति भुक्ते। वैशावृश्यमात्मनो. ज्येषां च करोमीति वैयावृत्यार्थ भुक्ते । क्रियार्थ षडावश्यक क्रिया मम भोजनमन्तरेण न प्रवर्तते इति ताः प्रतिपालयामी