SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ पिंडशुद्धयधिकारः ॥६॥ कमाहारमपरं भुक्ते यस्तस्य त्यक्तदोषो भवति । एते प्रशनदोषाः दश परिहरणीयाः । सावद्यकारणाजीवदयाहेतोर्लोकजुगुप्सा ततश्चेति ॥ ५६ ॥ संयोजनाप्रमाणदोषानाहसंजोयणा य दोसो जो संजोएदि भत्तपाणं तु। अदिमचो आहारो __ पमाणदोसो हवदि एसो॥५७ ॥ संयोजनं च दोषः यः संयोजयति भक्तपान तु। अतिमात्र आहारः प्रमाणदोषो भवति एषः॥५७॥ संयोजनं च दोषो भवति यः संयोजयति भक्तं पानं तु । शीतं भक्तं पानेनोष्णेन संयोजयति । शीतं वा पानं उष्णन भक्तादिना संयोजयति । अन्यदपि विरुद्धं परस्परं यत्तद्यदि सं. योजयति तस्य संयोजननाम दोषो भवति । अतिमात्र प्रा. हारः-प्रशनस्य सव्यंजनस्य तृतीयभागमुदकस्योदरस्य य: पूरयति, चतुर्थभागं चावशेषयति यस्तस्य प्रमाणभूत प्रा. हारो भवति, अस्मादन्यथा यः कुर्यात्तस्यातिपात्रो नामाहारदोषो भवति । प्रमाणातिरिक्ते प्राहारे गृहीते स्वाध्यायो न प्रवर्तते, षडावश्यकक्रियाः कर्तुं न शक्यंते, ज्वरादयश्च संतापयन्ति, निद्रालस्यादयश्च दोषा जायते इति ॥५७॥.
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy