SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३५८ मूलाचारे माया वाणारसिए लोहो पुण रासियाणम्मि ॥ क्रोधश्च हस्तिकल्पे मानो वेणातटे नगरे । माया वाराणस्यां लोभो राशियाने ॥ ३५ ॥ हस्तिकल्पपत्तने कश्चित्साधुः क्रोधेन भिक्षामुत्पादितवान् । तथा वेन्नातटनगरे कचित्संयतो मानेन भिक्षामुत्पादितवान् । तथा वाणारस्यां कश्चित्साधुः मायां कृत्वा भिक्षामु त्पादितवान् । तथान्यः संयतो लोभं प्रदर्श्य राशियाने भिक्षामुत्पादितवानिति । तेन क्रोधो हस्तिकल्पे, मानो वेन्नातटनगरे माया वाणारख्यां लोभो राशियाने इत्युच्यते । अत्र कथा उत्प्रे क्ष्य वाच्या इति ॥ ३५ ॥ पूर्वसंस्तुतिदोषमाहदायगपुरदो कित्ती तं दाणवदी जसोधरो वेत्ति । पुव्वीसंथुदि दोसा विस्सरिदे बोधणं चावि ॥ दायकपुरतःकीर्तिस्त्वं दानपतिः यशोधरो वा इति । पूर्वसंस्तुतिदोषो विस्मृते बोधनं चापि ॥ ददातीतिदायको दानपतिः तस्य पुरतः कीर्ति ख्यातं (र्ति ) ब्रूते । कथं त्वं दानपतिर्यशोधरः त्वदीया कीर्तिर्वि श्रुता लोके । यद्दातुरग्रतो दानग्रहणात्मामेव ब्रूते तस्य पूर्वसंस्तुतिदोषो नाम जायते । विस्मृतस्य च दानसम्बोधनं
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy