SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३५६ मूलाचारेवा न भवतीत्येवं पृष्टे दानपतिना, 'भवति पुण्यमिति' ययेवं ब्रूयातद्वनीपकं वचनं दानपत्युनुकूलवचनं प्रतिपाद्य यदि भुञ्जीत तदा तस्य वनीपकनामोत्पादनदोषः। दीनत्वादिदोषदर्शनादिति ॥ ३२ ॥ ___ चिकित्सां प्रतिपादयन्नाहकोमारतणुतिगिंछारसायणविसभूदखारतंतं च सालंकियं च सल्लं तिगिंछदोसो दु अट्टविहो ।। कोमारतनुचिकित्सारसायनविषभूतक्षारतंत्रं च । शालकिकं च शल्यं चिकित्सादोषस्तु अष्टविधः ॥ ___कौमारं बालवैद्यं मासिकसावंत्सरिकादिग्रहवासनहेतुः शास्त्रं तनुचिकित्साज्वरादिनिराकरणं कराठोदरशोधनकारणं च । रसायनं वलिपलितादिनिराकरणं बहुकालजीवित्वं च । विषं स्थावरजंगमं सकृत्रिमभेदभिन्नं । तस्य विषस्य चिकित्सा विषापहारः। भूत (त:) पिशाचादि तस्य चिकित्सा भ्रतापनयनशास्त्रं । क्षारतंत्रं तारद्रव्यं दुष्टत्रणादिशोधनकरं । शलाकया निवृत्तं शालाकि अक्षिपटलायुद्घाटनं । शल्यं भूमिशल्यं शरीरशल्यं च तोमरादिकं शरीरशल्यं, अस्थ्यादिकं भूमिशल्यं तस्यापनयनकारकं शास्त्रं शल्यमित्युच्यते । तथा विषापनयनशास्त्र विषमिति । भूतापनयननिमित्तं शास्त्रं भूतमिति, कार्ये कारणोपचारादिति । अथवा चिकित्साशन्दः
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy