________________
पिंडशुद्धयधिकारः ॥ ६॥ . ३५५ जातिर्मातसन्ततिः । कुलं पितृसन्ततिः । मातृशुद्धिः -पितृशुद्धिर्वा । शिल्पकर्म लेपचित्रपुस्तकादिकर्म हस्तविज्ञानं । तपःकर्म तपोऽनुष्ठानं । ईश्वरत्वं च । श्राजीव्यतेऽनेनाजीवः । प्रात्मनो जाति कुलं च निर्दिश्य शिल्पकर्म तपःकर्मेश्वरत्वं च निर्दिश्याजीवनं करोति यतोऽत आजीववचनान्येतानि तेभ्यो जातिकथनादिभ्यः पुनरुत्पाद प्राहारस्य योऽयं स आजीवदोषो भवत्येषः । वीर्यगृहनदीनत्वादिदोषदर्शनादिति ॥३१॥ वनीपकवचनं निरूपयन्नाहसाणकिविणतिधिमांहण
पासंडियसवणकागदाणादी। पुण्णं णवेति पुठे
पुण्णेत्ति वणीवयं वयणं ॥ श्वाकृपणातिथिब्राह्मणपाखंडिश्रमणकाकदानादिः। पुण्यं नवा इति पृष्टे पुण्यमिति वनीपकं वचनं ॥
.. शुनां, कृपणादीनां कुष्टव्याध्याघार्तादीनां अतिथीनां म. ध्यान्हकालागतानां भिक्षुकाणां, ब्राम्हणानां मांसादिभक्षिणां पाखंडिनां दीक्षोपजीविनां, श्रवणानामाजीवकानां छात्राणां वा काकादीनां च यदानादिकं दीयते तेन पुण्यं भवति किं