________________
मूलाचारतं । व्यञ्जनं दृष्ट्वा यच्छुभाशुभं ज्ञायते पुरुषस्य तद्वयञ्जनं निमित्तमित्युच्यते । तथाङ्ग शिरोग्रीवादिकं दृष्ट्वा पुरुषस्य यच्छुभाशुभं ज्ञायते तदङ्गं निमित्तमिति । तथा यं स्वरं शब्दविशेषं श्रुत्वा पुरुषस्यान्यस्य वा शुभाशुभं ज्ञायते तत्स्वरनिमित्तमिति । यं प्रहार छेदं वा दृष्ट्वा पुरुषस्यान्यस्य वा शुभाशुभं ज्ञायते तच्छिन्ननिमित्तं नाम । तथा यं भूमिविभागं दृष्ट्या पुरुषस्यान्यस्य वा शुभाशुभं ज्ञायते तद्भौमनिमित्तं नाम । यदन्तरिक्षस्य व्यवस्थितं ग्रहयुद्धं ग्रहाम्तमनं ग्रहनिर्घातादिक समीक्ष्य प्रजायाः शुभाशुभं विबुध्यते तदन्तरिक्षं नाम । यत्लक्षणं दृट्वा पुरुषस्यान्यस्य वा शुभाशुभं ज्ञायते तल्लक्षणनिमित्तं नाम । यं स्वप्नं दृष्ट्वा पुरुषस्यान्यस्य वा शुभाशुभ परिच्छिद्यते तत्स्वप्ननिमित्तं नाम । तथा चशब्देन भूमिगर्जन दिग्दाहादिकं परिगृह्यते । एतेन निमित्तेन भिक्षामुस्वाद्य यदि भुंक्ते तदा तस्य निमित्तनामोत्पादनदोषः । रसास्वादनदैन्यादिदोषदर्शनादिति ॥ ३० ॥
भाजीवं दोषं निरूपयन्नाहजादी कुलं च सिप्पं तवकम्मं ईसरच आजीवं । तेहिं पुण उप्पादो आजीव दोसो हवदि एसो॥ जातिः कुलं च शिल्पं तपःकर्म ईश्वरत्वं आजीवं । तैः पुनः उत्पादः आजीवदोषो भवति एषः ।