________________
पिंडशुद्धयधिकारः ॥ ६
३५३
म्बन्धिनो वचनं नीत्वा निवेदयति यस्मै प्रहितं स परग्रामस्थ: परदेशस्थश्च तद्वचनं श्रुत्वा तुष्टः सन् दानादिकं ददाति वदानादिकं यदि साधुर्गृह्णाति तदा तस्य दूतकर्मखोत्पादनदोषः । तथा स्थले गच्छत श्राकाशे च गच्छतः साधोर्यत्सम्बं धिवचननयनं स्वग्रामात्परग्रामे स्वदेशात्परदेशे, यस्मिन् ग्रामे तिष्ठति स स्वग्राम इत्युच्यते, तथा यस्मिन् देशे तिष्ठति बहूनि दिनानि स्वदेश इत्युच्यते । इत्येवं जलगतं स्थलगतमाकाशगतं च तद्दुतेन नीयते इति तदूतमित्युच्यते । यदेतत्सम्बन्धिनो वचनस्य नयनं स एष दूतदोषो भवति । दूतकर्म शासनदोषायेति दोषदर्शनादिति ॥ २९ ॥
निमित्तस्वरूपमाह -
वंजणमंगं च सरं छिण्णं भूमं च अंतरिक्खं च । लक्खण सुविणं च तहा अट्ठविहं होइ मित्तं ॥ व्यंजनमंगं च स्वरः छिन्नः भूमिश्च अंतरिक्षं च । लक्षणं स्वप्नः च तथा अष्टविधं भवति निमित्तं ॥
व्यजनं मशक तिलकादिकं । अङ्गं च शरीरावयवः । स्वरः शब्दः । छिन्नः छेदः, खड्गादिप्रहारो वस्त्रादिच्छेदो वा । भूमि भूमिविभागः । अन्तरिक्षमा दित्यगृहाद्युदयास्तमनं । लक्षणं नन्दिकावर्त पद्मचक्रादिकं । स्वप्नश्च सुप्तस्य हस्तिविमानमहिषरोहणादिदर्शनं च तथाष्टप्रकारं भवति निवि
२२
.