________________
मूलगुणाधिकारः ।
जीविदमरणे लाभालाभे संजोयविप्पओगे य । बंधुरि सुहदुक्खादिसु समदा सामाइयं णाम २३ जीवितमरणयोः लाभालाभयोः संयोगविप्रयोगे च । बंध्वरिसुखदुःखादिषु समता सामायिकं नाम ॥२३॥
२६
जी विदमरणे - जीवितमौदारिकवैक्रियिकादिदेहधारणं, मरमां मृत्युः प्राणिप्राणवियोगलक्षणं जीवितं च मरणं च जीवितमरणे तयोर्जीवितमरणयोः । लाभालाभे-लाभोऽभिलषितप्राप्तिः, अलाभोऽभिलषितस्याप्राप्तिः लाभश्चालाभश्च लाभालाभौ तयोर्लाभालाभयो हारोपकरणादिषु प्राप्त्वप्रात्योः । संजोगविपयोगे य- संयोग इष्टादिसन्निकर्षः, विमयोग इष्टवियोगः संयोगश्च विप्रयोगश्च संयोगविप्रयोगौ तयोः संयोगविप्रयोगयोः, इष्टानिष्टसन्निकर्षासन्निकर्षयोः । बन्धुरिसुखदुक्खादिसु - बन्धुश्च अरिश्च सुखं च दुःखं च बन्ध्वरिसुखदुःखानि तान्यादीनि येषां ते बन्ध्वरिसुखदुःखादयस्तेषु स्वजनमित्रशत्रुसुखदुःख क्षुत्पिपासाशीतोष्णादिषु । समदा - समता चारित्रानुविद्धसमपरिणामः । सामाइयं णामसामायिक नाम भवति । जीवितमरणलाभालाभ संयोगविप्रयोग बन्ध्वरिसुखदुःखादिषु यदेतत्समत्वं समानपरिणामः त्रिकालदेववन्दनाकरणं च तत्सामायिकं व्रतं भवतीत्यर्थः ॥ चतुर्विंशतिस्तवस्वरूपं निरूपयन्नाह -