________________
मूलाचारे उसहादिजिणवराणं णामाणिरुतिगुणाणुकिनि च काऊण अचिदूण य तिसुद्धिपणमो थवो णेओ॥ ऋषभादिजिनवराणां नामनिरुक्तिं गुणानुकीर्तिं च । कृत्वा अर्चयित्वा च त्रिशुद्धिप्रणामः स्तवो ज्ञेयः २४ ___ उसहादिजिणवराणं-ऋषभः प्रथमतीर्थकर आदिर्येषां ते ऋषमादयस्ते च ते जिनवराश्च ऋषभादिजिनवरास्तेपामृषभादिजिनवराणां वृषभादिवर्धमानपर्यन्तानां चतुर्विशतितीर्थकराणां । णामणिरुति-नाम्नामभिधानानां निरुक्तिर्नामनिरुक्तिम्तां नामनिरुक्ति प्रकृतिप्रत्ययकालकारकादिभिः निश्चयेन अनुगतार्थकथनं ऋषभाजितसम्भवाभिनन्दनसुमतिपद्मपमसुपार्शचन्द्रप्रभपुष्पदन्तशीतलश्रेयोवासुपूज्यविमलानन्तधर्पशान्निकुन्ध्वरमल्लिमुनिसुव्रतनम्यरिष्टनेमिपार्शवर्धमाना: नामकीर्तनमे नत् । गुणानुकित्तिं च-गुणानामसाधारणधर्माणापनुर्कातिरनुख्यापनं गुणानुकीर्तिस्ता गुणानुकीति च निर्दोषाप्तलक्षणस्तुतिम् लोकस्योद्योतकरा धर्मतीर्थकराः सु. रासुरमनुष्येंद्रस्तुताः परमार्थतत्त्वस्वरूपाः विमुक्तघातिकठिनर्माणः, इत्येवमादिगुणानुकार्तनं । काऊण-कृत्वा गुणग्रहणपूर्वक ना ग्रहणं प्रकृत्य । अच्चिदृण य-अर्वियित्वा च गन्धपुष्पधृपादिभिः प्रासुकैरानीतैर्दिव्यरूपैश्च दिव्यनिराकृतमलप:लसुगन्धैश्चशितितीर्थकरपदयुगलानामचनं कृत्वा