________________
मूलाचारे
खीणकसाओ झायदि
एयत्वविदकवीचारं ॥२०७॥ उपशांतस्तु पृथक्त्वं
ध्यायति ध्यानं वितर्कवीचारं । क्षीणकषायो ध्यायति
एकत्ववितर्कवीचारं ।। २०७॥ उपशान्तकषायस्तु पृथक्त्वं ध्यायति ध्यानं । द्रव्यागयनेकभेदभिन्नानि त्रिभियोगैर्यतो ध्यायति ततः पृथक्त्वमिल्युच्यते । वितर्कः श्रुतं यस्माद्वितर्केण श्रुतेन सह वर्तते यस्माच नवदशचतुर्दशपूर्वधरैरारभ्यते तस्मात्सवितर्क तत् । विचारोर्थव्यंजनयोगः (ग) संक्रमणः । एकमर्थं त्यक्त्वार्थान्तरं ध्यायति मनसा संचिंत्य वचसा प्रवर्तते कायेन प्रवर्तते एवं परंपरेण संक्रमो योगानं द्रव्याणां व्यंजनानां च स्थूलपर्यायाणामर्थानांसूक्ष्मपर्यायाणां वचनगोचरातीतानां संक्रमः सवीचारं यानमिति । अस्य त्रिपकारस्य ध्यानस्योपशान्तकषाय: स्वामी । तथा क्षीणकपायो ध्यायत्येकत्ववितर्क ( अ ) वीचा. रं। एक द्रव्यमेकार्थपर्यायमेकं व्यंजनपर्यायं च योगनैकेन ध्यायति तयानमेकत्वं, वितर्कः श्रुतं पूर्वोक्त मेव, अवीचारव्यंजनयोगसंक्रान्तिरहितं । अस्य त्रिप्रकारस्यैकत्ववितर्कश्रीचार भेदभिन्नस्य क्षीण कषायः स्वामी ॥ २०७ ॥