________________
..३१६
मूलाचारेशुभप्रकृतीनां गुडखण्डशर्करामृतस्वरूपेणानुभागचिन्तनं । अशुभप्रकृतीनां निम्बकांजीरविषहालाहलस्वरूपेणानुभागचिन्तनं । तथा घातिकर्मणां लतादावस्थिशिलासमानानुचिंतनं । नरकतिर्यग्मनुष्यदेवगतिप्रापककर्मफलचिन्तनं । इत्येवमादिचिन्तनं विपाकवियधय॑ध्यानं नामेति । ।२०४॥
संस्थानविचयस्वरूपं विटण्वन्नाहउड्ढमहतिरियलोए विचिणादि सपज्जए ससंठाणे एत्थेव अणुगदाओ अणुपेक्खाओ य विचिणादि उध्वाधस्तिर्यग्लोकान्विचिनोतिसपर्यायान्ससंस्थानानू अत्रैवानुगता अनुप्रेक्षाश्च विचिनोति ॥ २०५ ॥
ऊर्ध्वलोकं सपर्ययं सभेदं ससंस्थानं व्यस्रवतुरस्रवृत्तदीर्घायतमृदंगसंस्थान पटलेन्द्रकश्रेणीबद्धमकीर्णरविमानभेदमिन विचिनोति ध्यायति । तथाधोलोक सपर्ययं ससंस्थानं वेत्रासनाद्याकृति व्यस्रचतुरस्रवृत्तदीयतादिसंस्थानभेदभिन्नं सप्तपृथवीन्द्रकश्रेणिविश्रेणिवद्धप्रकीर्णकप्रस्तरस्वरूपेण स्थितं शीतोष्णनारकसंहितं महावेदनारूपं च विचिनोति। तथा तिर्यग्लोकं सपर्ययं सभेदं ससंस्थानं झल्लाकारं मेरुकुलपर्वतादि ग्रामनगरपचनभेदभित्र पूर्व विदेहापर विदेहभरतैरावतभोगभूमिद्वीपसमुद्रवननदीवेदिकायतनकूटादिभेदभिन्नं दीर्घहस्वत्तायतव्यस्रचतुरस्रसंस्थानसहितं