SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ पंचाचाराधिकारः ॥ ५ ॥ ३१५ कते, एतैः परिणामः संसारे भ्रमन्ति जीवाः, एतैश्च संसाराद्विमुञ्चन्तीति चिन्तनमपायचिन्तनं नाम द्वितीयं धर्मध्यानमिति ।। २०३ ॥ विपाकविचयस्वरूपमाहएआय भवगयं जीवाणं पुणपावकम्मफलं । उदओदीरणसंकम बंधं मोक्खं च विचिणादि ॥ २०४ ॥ एकानेकभवगतं जीवानां पुण्यपापकर्मफलं । उदयोदीरणसंक्रमबंध मोक्षं च विचिनोति ॥ २०४ ॥ एकभवगतमनेकभवगतं च जीवानां पुण्यकर्मफलं पापकर्मफलं च विचिनोति । उदयं स्थितिक्षयेण गलनं विचिनोति ये कर्मकन्या उत्कर्षापकर्षादिप्रयोगेण स्थितिक्षयं प्राप्यात्मनः फलं ददते तेषां कर्मस्कन्धानामुदय इति संज्ञा तं ध्यायति । तथा चोदीरणमपकपाचनं । ये कर्मस्कन्धाः सत्सु स्थित्यभागेषु अवस्थिताः सन्त आकृष्याकाले फलदाः क्रियन्ते तेषां कमस्कन्धानामुदीरणमिति संज्ञा तद् ध्यायति । संक्रमणं परप्रकृतिस्वरूपेण गमनं विचिनोति । तथा वन्धं जीवकर्मप्रदेशान्योन्यसंश्लेषं ध्यायति । मोक्षं जीवकर्मप्रदेश विश्लेषमनन्तज्ञानदर्शन सुखवीर्यस्वरूपं विचिनोतीति सम्बन्धः । तथा A
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy