________________
२७.
मूलगुणाधिकारः। जीवाजीवसमुत्थे कक्कडमउगादिअट्ठभेदजुदे। फासे सुहे यअसुहे फासणिरोहो असंमोहो॥ जीवाजीवसमुत्थे कर्कशमृदुकाद्यष्टभेदयुते । स्पर्शे सुखे वा असुखे स्पर्शनिरोधः असंमोहः॥२१॥ जीवाजीवसमुत्थे-जीवश्च अजीवश्च जीवाजीवौ जीवाजीवयोः समुत्तिष्ठते सम्भवतीति जीवानीवसमुत्थस्तस्मिश्चेतनाचेतनसम्भवे । कक्कडमउगादि अभेदजुदे कर्कशः कठिनः, मृदुः कोमलं कर्कशश्च मृदुश्च कर्कशमृदृ तावादियेषां ते कर्कशमृद्वादयः अष्टौ च ते भेदाश्चाष्टमेदाः कर्कशमृद्वादयश्च ते अष्टभेदाश्च कर्कशमृद्वाद्यष्टभेदास्तैर्युक्तः कर्कशमृद्वाद्यष्टभेदयुक्तस्तस्मिन् कर्कशमृदुशीतोष्णस्निधरूक्षगुरुलघुगुण विकल्पसमविते वनितातूलिकाद्याधारभुते । फासे-स” । सुहे-सु. खे सुखहेतौ । असुहे य-असुखे च दुःखहेतौ फासणिरोहो -स्पर्शनिरोधः स्पर्शनेन्द्रियजयः। अमोहो-न सम्मोह असम्मोहोऽनाल्हाद इत्यर्थः । जीवाजीवसमुद्भवे कर्कशमृद्वाद्य
भेदयुक्त सुखासुखस्वरूपनिमित्ते स्पर्शविषये योऽयमसम्मोहोऽनभिलाषः स्पर्शनेन्द्रियनिरोधव्रतं भवतीत्यर्थः ॥
पंचेन्द्रियनिरोधव्रतानां स्वरूपं निरूप्य षडावश्यकव्रतानां स्वरूपं नामनिर्देशं च निरूपयन्नाहसमदा थवो य वंदण पाडिकमणं तहेव णादव।