________________
२६
मलाचारे
असणादिचदुवियप्पे पंचर से फासुगम्हि णिरवज्जे । इट्ठाणिट्ठाहारे दत्ते जिन्भाजओ गिद्धी ||२०|| अशनादिचतुर्विकल्पे पंचर से प्रासु निरवद्ये । इष्टानिष्टाहारे दत्ते जिह्वाजयोऽगृद्धिः ॥ २० ॥
असणादिचदुत्रियप्पे अशनमादिर्येषां तेऽशनादयो भोजनादयः, चत्वारश्च ते विकल्पाश्च चतुर्विकल्पाः अशनादयश्चतुर्विकल्पा यस्मिन्नसौ अशनादिचतुर्विकल्पस्तस्मिन्नशन पानखादस्वाद्यभेदे भक्तदुग्धलड्डुकै लादिस्त्रभेदभिन्ने । पंचरसे- पंच रसा यस्मिन्नसौ पंचरसस्तस्मिन् पंचर से तिक्तकटुकषायाम्लमधुरभेदभिन्न लवणस्य मधुररसेऽन्तर्भावः । फासुए प्रासुके जीवसम्मूर्च्छनादिरहिते । विद्ये अवद्यादोषान्निर्गतो निरवद्यस्तस्मिन् निरवद्ये पापागम विरहिते कुत्सादिदोषमुक्तं च । इट्ठापिट्ठ - इष्टोऽभिप्रेतो मनोहादकः, अनिष्टोऽनभिप्रेतः मनोदुखदः, इष्टश्च अनिष्टयेष्ट निष्टस्तस्मिन्निष्टानिष्टे । श्राहारे आहारो बुभुक्षाद्युपशामकं द्रव्यं तस्मिन्नाहारे दत्ते प्राप्ते दातृजनोपनीते । जिब्भाजयो- जिव्हाया जयो जिव्हाजयो रसनेंन्द्रियात्मवशीकरणम् । अगिद्धी- अमृद्धिरनावांक्षा । आहारे अशनादिचतुष्प्रकारे पंचरससमन्विते प्रासुके निरवद्येच प्राप्ते सति येयमगृद्धिस्तज्जिव्हाजयत्रतं भवतीत्यर्थः ॥
स्पर्शनेन्द्रियनिरोधव्रतस्य स्वरूपं प्रतिपादयन्नुत्तरसूत्रमाह