SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ मूलगुणाधिकारः । १५ रागद्दे साकरणं घाणणिरोहो मुणिवरस्सं ॥ १९ ॥ प्रकृतिवासनागंधे जीवाजीवात्मके सुखे असुखे । रागद्वेषाकरणं घ्राणनिरोधो मुनिवरस्य ॥ १९ ॥ · पडीवास गंधे - प्रकृतिः स्वभावः, वासना अन्यद्रव्यकृतसंस्कारः, प्रकृतिश्च वासना च प्रकृतिवासने ताभ्यां गन्धः सौरभ्यादिगुणः प्रकृतिवासनागन्धस्तस्मिन् स्वभावान्यद्रव्यकृते सौरभ्यादिगुणे । जीवाजीवप्पगे—जीवति जीविष्यति जीवितपूर्वो वा चेतनालक्षणो जीवः सुखदुःखयोः कर्ती, नजीवोऽजीवस्तद्विपरीतः, जीवश्चाजीवश्च जीवाजीवौ तौ प्रगच्छतीति जीवाजीवप्रगः जीवाजीवस्वरूपः तस्मिन् जीवाजीवस्वरूपे कस्तूरीयक्ष दमचंदनादि सुगन्धद्रव्ये । सुहे-सुखे स्वात्मप्रदेशाल्हादनरूपे । असुहे- असुखे स्वप्रदेशपीडाहेतौ सुखदु:खयोर्निमित्ते | रागदेसा करणं - रागश्च द्वेषश्च रागद्वेषौ तयोरकरणं अनभिलाषः रागद्वेषाकरणमनुरागजुगुप्सानभिलाषः । घाणणिरोही-गोन्द्रियनिरोधः घ्राणेन्द्रियामसरः । मुणिवरस्स-मुनीनां वरः श्रेष्ठो मुनिवर: यतिकुञ्जरस्तस्य मुनिवरस्य । जीवगते जीवगते च प्रकृतिगन्धे वासनागन्धे च सुखरूपेऽ सुखरूपे च यदेतद्रागद्वेषयोरकरणं मुनिवरस्य तत् घ्राणेन्द्रियनिरोधव्रतं भवतीत्यर्थः ॥ चतुर्थरसनेन्द्रियनिरोधव्रतस्वरूपनिरूपणार्थमाह
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy