SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २४ मूलाचार सङ्गादिनीवसद्दे-षड्गः स्वरविशेषः स आदिर्येषां तेषड्गादयः जीवस्य शब्दाजीवशब्दाः षड्गादयश्च जीवशब्दाश्च ष. ड्गादिजीवशब्दाः षड्गपभगान्धारमध्यमधैवतपंचमनिषादभेदा उरकण्ठशिरःस्थानभेदभिन्नाः, पारोह्यवरोहिस्थायिसंचारिवर्णयुक्ता मन्द्रतारादिसमन्विताः, अन्ये च दुःस्वरशब्दारासमादिसमुत्था ग्राह्याः। वीणादिअजीवसंभवा-वीणा आदिर्येषां ते वीणादयो वीणादयश्च ते अजीवाश्च वीणाद्यजीवास्तेभ्यः संभवन्तीति वीणाद्यजीवसम्भवा वीणात्रिशरीरावणहस्तालाबनिमृदंग-भेरी-पटहायुद्भवाः । सद्दे-शब्दाः । रागादीण-राग आदिर्येषां ते रागादयस्तेषां रागादीनां रागद्वेषादीनाम् । णिमित्ते-निमित्तानि हेतवो रागादिकारणभूताः । तदकरणं तेषां षड्गादीनामकरणमश्रवणं च तदकरणं स्वतो न कर्तव्या नापि तेऽन्यैः क्रि प्रमाणा रागाद्याविष्टचेतसा श्रोतव्या इति । सोदरोधो दु--श्रोत्रस्य श्रोत्रेन्द्रियस्य रोधः श्रोत्ररोधः । दु विशेषार्थः । रागादिहेतवो ये षड्गादयो जीवशब्दावीणाधजीवसम्भवाश्व, तेषां यदश्रवणं आत्मना अकरणं च तच्छ्रोत्रव्रतं मुनेर्भवतीत्यर्थः । अथवा षड्गादिजीवशब्दविषये वीणाद्यजीवसंभवे शब्दविषये च रागादीनां यन्निमित्तं तस्याकरणमिति ॥ तृतीयस्य घ्राणेन्द्रियनिरोधव्रतस्य स्वरूपनिरूपणार्थमाहपयडीवासणगंधे जीवाजीवप्पगे सुहे असुहे।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy