________________
मूलगुणाधिकारः। विम्बानि, अजीवद्रव्याणि च । सचित्तानि, चाचित्तानि च सचित्ताचित्तानि, तेषां सचित्ताचित्तानाम् । किरिया-संठाणवगणभेएसु-क्रिया-गीतविलासनृत्यचंक्रमणात्मिका, संस्थानं समचतुरस्रन्यग्रोधाद्यात्मकं वैशाखबन्धपुटाद्यात्मकं च, वर्णाः गौरश्यामादयः । क्रिया च संस्थानं च वर्णाश्व क्रियासंस्थान वर्णाः, तेषां भेदा विकल्पाः क्रियासंस्थानवर्णभेदास्तेषु क्रियासंस्थानवर्णभेदेषु. नृत्यगीतकटाक्षनिरीक्षणसपचतुरस्राकारगौरश्यामादिविकल्पेषु शोभनाशोभनेषु । रागादिसंगहरणंराग आदियेषां ते रागादयः रागादयश्च ते संगाश्च रागादिसंगाः संगाश्चाशक्तयस्तेषां हरणं निराकरणं रागादिसंगहरणं रागद्वेषाधनभिलाषः । चक्खुणिरोहो-चक्षुषोनिगेषश्चक्षुनिरोधः चक्षुरिन्द्रियाप्रसरः। हवे भवेत् । मुणिणो-मुनेरिन्द्रिययमनायकस्य । स्त्रीपुरुषाणां स्वरूपलेपकर्मादिव्यवस्थितानां ये क्रियासंस्थानवर्णभेदास्तद्विषये यदेतत् रागादिनिरा. कारणं तच्चक्षुनिरोधव्रतं मुनेर्भवतीत्यर्थः ॥ ___ श्रोत्रेन्द्रियनिरोधव्रतस्वरूपनिरूपणायाहसड्गादिजीवसद्दे वीणादिअजीवसंभवे सद्दे । रागादीण णिमित्ते तदकरणं सोदरोधो दु॥१८॥ षड्गादिजीवशब्दा वीणाद्यजीवसंभवाः शब्दाः। रागादीनां निमित्तानि तदकरणं श्रोत्ररोधस्तु ॥१८॥