________________
मूलाचारे
ति घ्राणम् । चष्टे इति चक्षुः । शृणोतीति श्रोत्रमिति । ए. वमिन्द्रियाणि पंच । तद्विषयाश्च पंच । वयत इति वर्णः । शब्दयते इति शब्दः । गन्ध्यत इति गन्धः । रस्यत इति रसः। स्पृश्यत इति स्पर्शः इति । पंच-संख्यावचनमेतत् । सगसगविसएहितो-स्वकीयेभ्यः स्वकीयेभ्यो विषयेभ्यो रूपशब्दगन्धरसस्पर्शेभ्यः स्वभेदभिन्नेभ्यो मनोहरामनोहररूपेभ्यः। णिरोहियव्वा-निरोधयितव्यानि--सम्यक् ध्याने प्रवेशयितव्यानि । सया-सदा सर्वकालम् । मुणिणा-मुनिना संयमप्रियेण । स्वकीयेभ्यः स्वकीयेभ्यो विषयेभ्यो रूपशब्दगन्धरसस्पर्शेभ्यश्चक्षुरादीनां निरोधनानि मुनेर्यानि तानि पंच इंद्रियनिरोधनानि पंच मूलगुणा भवन्तीत्यर्थः । अथवा ये पंच निरोधा इंद्रियाणां क्रियते मुनिना स्वविषयेभ्यस्ते पंचेंद्रिय-निरोधाः पंच मूलगुणा भवतीत्यर्थः ।
प्रथमस्य चक्षुनिरोधव्रतस्य स्वरूपनिरूपणार्थमाहसचित्ताचित्ताणं किरियासंठाणवण्णभेएसु । रागादिसंगहरणं चक्खुणिरोहो हवे मुणिणो १७ सचित्ताचित्तानां क्रियासंस्थानवर्णभेदेषु । रागादिसंगहरणं चक्षुर्निरोधो भवेत् मुनेः॥ १७ ॥
सञ्चित्ताचित्ताणं-सहचित्तेन सामान्यज्ञानदर्शनोपयोगनिमित्तचैतन्येन वर्तन्त इति सचिचानि सजीवरूपाणि देवमनुम्यादियोषिट्पाणि, न चित्तानि अचित्तानि सचित्तद्रव्यमति