________________
मूलगुणाधिकारः ।
२१
याणि मतिज्ञानावरणक्षयोपशमशक्तयः । इन्द्रियं द्विविधं द्रव्येंद्रियं भावेन्द्रियं चेति । तत्र द्रव्येन्द्रियं द्विविधं निर्वृत्तिरूपकरणं च । कर्मणा निर्वर्त्यते इति निवृत्तिः, सा च द्विविधा वाहयाभ्यन्तरा चेति उत्सेधाङ्गुला संख्येयभागममितानां शु-द्वानामात्मप्रदेशानां प्रतिनियतचक्षुः श्रोत्रघाणरसनस्पर्शनेन्द्रियसंस्थानेनावस्थितानां वृत्तिराभ्यन्तरा निर्वृत्तिः । तेषु आत्मप्रदेशेषु इन्द्रियव्यपदेशभाग यः प्रतिनियतसंस्थाननामकर्मोदयापादितावस्थाविशेषः पुद्गलमचयः सा बाह्या निर्वृत्तिः । येन निर्वृत्तेरुपकारः क्रियते तदुपकरणं । तदपि द्विविधं श्राभ्यन्तरवाहयभेदेन । तत्राभ्यन्तरं कृष्णा शुक्रमण्डलं । बाहयमक्षिपत्रपक्ष्मद्वयादि । एवं श्रोत्रेन्द्रियघ्रागोन्द्रियर सनेंद्रियस्पर्शनेन्द्रियाणां वक्तव्यं वाह्याभ्यन्तरभेदेन द्वैविध्यम् । भावेन्द्रियमपि द्विविधं लब्ध्युपयोगभेदेन । लम्भनं लब्धिः । का पुनरसौ ज्ञानावरणकर्मक्षयोपशमविशेषः । यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृत्ति प्रति व्याप्रियते सा लब्धिः । तन्निमिच आत्मनः परिणाम उपयोगः कारणधर्मस्य कार्ये दर्शनात् । वीर्यान्तरायमतिज्ञानावरण क्षयोपशमांगोपांगनामलाभावष्टम्भबलादात्मना स्पृश्यतेऽनेनेति स्पर्शनम्, रस्यतेऽनेनेति रसनम्, प्रायतेऽनेनेति घ्राणम्, चष्टेऽर्थान् पश्यत्यनेनेति चक्षुः, श्रयतेऽनेनेति श्रोत्रम् | स्वातन्त्र्यविवक्षा च दृश्यते कर्तृकरणयोरभेदात् इदं मे चक्षुः सुष्ठु पश्यति । अयं मे कर्णः सुष्ठु शृणोति । स्पृशतीति स्पर्शनम् । रसतीति रसनम् चिती