SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ MAM पंचाचाराधिकारः ॥ ५ ॥ ३१३ एयग्गेण मणं णिरुभिऊण धम्मं चउन्दिहं झाहि आणापायविवायविचओ य संठाणविचयं च ॥ एकाग्रेण मनो निरुध्य धर्मं चतुर्विधं ध्याय । आज्ञापायविपाकविचयः संस्थानविचयश्च ॥ २०१ ॥ एकाग्रेण पंचेन्द्रियव्यापारपरित्यागेन कायिकवाचिकव्यापारविरहेण च । मनो मानसव्यापारं । निरुध्यात्मवशं कृत्वा । धर्म चतुर्विधं चतुर्भेदं । ध्याय चिन्तय । के ते चत्वारो विकल्पा इत्याशंकायामाह - श्राज्ञाविचयोऽपायविचयो विपाकविचयः संस्थानविचयश्चेति ।। २०१ ॥ तत्राज्ञा विचयं विगवन्नाह - पंचत्थिकायछज्जीवणिकाये कालदव्वमण्णे य । आणागेज्झे भावे आणाविचयेण विचिणादि ॥ पंचास्तिकायषट्जीवनिकायान् कालद्रव्यमन्यत् व आज्ञाग्राह्यान् भावान् आज्ञाविचयेन विचिनोति ॥ पंचास्तिकायाः जीवास्तिकायोऽ जीवास्तिकायो धर्मास्तिकायोsधर्मास्तिकायो वियदास्तिकाय इति तेषां प्रदेशबन्धोऽ- स्तीति कृत्वा काया इत्युच्यन्ते । षड्जीवनिकायश्च पृथिव्यप्तेजोवायुवनस्पतित्रसाः । कालद्रव्यमन्यत् । अस्य प्रदेशबन्धाभावादस्तिकायत्वं नास्ति । एतानाज्ञाग्राह्यान भावान् पदार्थान् ।
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy