________________
१२ . मूलाचारे
स्तैन्यं परद्रव्यापहरणाभिमायः । मृषाऽनृते तत्परता । सारक्षणं यदि मदीयं द्रव्यं चोरयति तमहं निहन्मि, एवमायुधव्यग्रहस्तमारणाभिप्रायः । स्तन्यमृषावादसारक्षणेषु । तथा चैव षड्विधारम्भे पृथिव्यप्तजोवायुवनस्पतित्रसकायिकविराधने च्छेदनभेदनबन्धनबधताडनदहनेषूधमः रौद्रं कषायसहितं ध्यानं भणितं । समासेन संक्षेपेग । परद्रव्यहरणे तत्परता प्रथमं रौद्रं । परपीड़ाकरे मृषावादे यत्नः द्वितीयं रौद्रं। द्रव्यपशुपुत्रादिरक्षणविषये चौरदायादिमारणोद्यमे यत्नस्ततीयं रौद्रं । तथा षड्विधे जीवमारणारम्भे कृताभिप्रायश्चतु. थै रौद्रमिति ॥ १६९ ॥ ततःअवहट्टु अट्टरद्दे महाभए सुग्गदीयपच्चूहे । धम्मे वा सुक्के वा होहि समण्णागदमदीओ॥ भपहृत्य आर्तरौद्रे महाभये सुगतिप्रत्यूहे । धर्मे वा शुक्ले वा भव समन्वागतमतिः ॥ २०॥
यत एवंभूते आतरोद्रे । किविशिष्ट, महाभये महासंसारभीतिदायिनि (नी) सूगतिपत्यूहे-देवगतिमोक्षगतिप्रतिकूले । अपहृत्य निराकृत्य । धर्मध्याने शुक्लध्याने वा भव सम्यग्विधानेन गतमतिः । धर्मध्याने शुक्लध्याने च सादरो सुष्ठ विशुद्ध मनो विधेहि समाहितमतिर्भव ( वे) ति ॥२०॥
धर्मध्यानभेदान् प्रतिपादयन्नाह