________________
पंचाचाराधिकारः ॥५॥
३०॥ अध्वनि श्रान्तस्य । स्तेनैश्चौरैरुपद्रुतस्य । श्वापदैः सिंहव्याघ्रादिभिः परिभूतस्य । राजभिः खंचितस्य । नदीरोधेन पीडितस्य । प्रशिवेन मारिरोगादिव्यथितस्य । भोमे-दुभिक्षपीडितस्य । वैयाकृत्यमुक्तं संग्रहसारक्षणोपेतं । तेषामागतानां संग्रहः कर्तव्यः । संगृहीतस्य रक्षणं कर्तव्यं । अबचैवं सम्बन्धः कर्तव्यः । एतेषु प्रदेशेषु संग्रहोपेतं सारक्षणो. पेतं च वैयावृत्यं कर्तव्यमिति । अथवा रोधशब्दाः प्रत्येकमभिसम्बध्यते । पथिरोधश्चौररोधः श्वापदरोधः राजरोपो नदीरोध एतेषु रोधेषु तथा शिवे दुर्भिक्षे च वैयावत्वं कर्तव्यमिति ॥ १९५॥
__स्वाध्यायस्वरूपपाहपरियट्टणाय वायण
पडिच्छणाणुपेहणा य धम्मकहा। थुदिमंगलसंयुक्तः
पंचविहो होइ सज्झाओ॥ १९६॥ परिवर्तनं वाचनं पृच्छना अनुप्रेक्षा च धर्मकथा। स्तुतिमंगलसंयुक्तः पंचविधो भवति स्वाध्यायः॥
परिवर्तनं पठितस्य ग्रन्थस्यानुवेदनं । वाचना शास्त्रस्य व्याख्यानं । पृच्छना शास्त्रश्रवणं । अनुप्रेक्षा द्वादशानुमेक्षा नित्यत्वादि । धर्मकथा त्रिषष्टिशलाकापुरुषचरितानि । स्तु