________________
३०३
पंचाचाराधिकारः ॥ ५॥ " वाचिकमानसिकविनयभेदानाहहिदमिदपरिमिदभासा
अणुवीचीभाषणं च बोधवं । अकुसलमणस्स रोधो
कुसलमणपवत्तओ चेव ॥ हितमितपरिमितभाषा अनुवीचिभाषणं च बोद्धव्यं । अकुशलमनसो रोधः कुशलमनःप्रवर्तकश्चैव ॥
हितभाषणं मितभाषणं परिमितभाषणमनुवीचिभाषणं च । हितं धर्मसंयुक्तं । मितमल्पाक्षरं बहथ । परिमितं कारणसहितं । अनुवीचीभाषणमागमाविरुद्धवचनं चेति चतुर्विधो वचनविनयो ज्ञातव्यः । तथाऽ कुशलमनसो रोधः पापादानकारकचित्तनिरोधः । कुशलमनसो धर्मप्रवृत्तचित्तस्य प्रवर्तकश्चेति द्विविधो मनोविनय इति ॥ १८६ ॥
स एवं द्विविधो विनयः साधुवर्गेण कस्य कर्तव्य इत्याशंकायापाह
रादिणिए ऊणरादिणिएसु अ
अज्जासुचेव गिहिवरगे। विणओ जहारिओ सो
कायबो अप्पमत्तण ॥