SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ३०२ ... मूलाचारे अथौपचारिको विनय उपकारे धर्मादिकपरचित्तानुग्रहे भव औपचारिकः खलु स्फुटं त्रिविधस्त्रिपकारः कायिकवाचिकमानसिक भेदेन समासतः संक्षेपतो भणितः कथितः । सप्तविधश्चतुर्विधो द्विविधो बोद्धयः । आनुपूानुक्रमेण कायिकः सप्तप्रकारो वाचिकश्चतुर्विधः मानसिको द्विविध इति ।। कायिकविनयं सप्तरकारमाहअब्भुट्ठाणं सण्णदि आसणदाणं अणुप्पदाणं च किदिकम्म पडिरूवं आसणचाओ य अणुबजणं अभ्युत्थानं सन्नतिः आसनदानं अनुप्रदानं च । कृतिकर्म प्रतिरूपं आसनत्यागश्च अनुव्रजनं ॥ अभ्युत्थानमादरेणोत्थानं । सन्नतिः शिरसा प्रणामः । आसनदानं पीठ थुपनयनं । अनुपदानं च पुस्तकपिच्छिकाधुपकरणदानं । क्रियाकर्म श्रुतभक्त्यादिपूर्वककायोत्सर्ग: प्रतिरूपं यथायोग्यं, अथवा शरीरप्रतिरूपं कालपतिरूपं भावप्रतिरूपं च क्रिया में शीतोष्णमूत्रपुरीषाद्यानयनं । श्रासनपरित्यागो गुरोः पुरत उच्चस्थाने न स्थातव्यं । अनुव्रजनं प्रस्थितेन सह किंचिद्गपनमिति । अभ्युत्थानमेकः सन्नतिदिनीय आसनदानं तृतीयम (अ) नुप्रहानं चतुर्थः प्रतिरूपक्रियाकर्म पंचमः आसनत्यागः षष्ठोऽनुव्रजनं सप्तमः प्रकार: कायिकविनयस्येति ॥ १८ ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy