________________
मूलाबारे
1
तस्मिंस्तपोषिके । श्रात्मनोऽधिकतरसि तपसि च द्वादशविधतपोनुष्ठाने च भक्तिरनुरागः । शेषाणामनुत्कृष्टतपसामहेलना अपरिभवः । एष तपसि विनयः सर्वसंयतेषु प्रणामवृत्तियथोक्तचारित्रस्य साधोर्भवति ज्ञातव्य इति ।। १७४ ॥ पंचमौपचारिक विनयं प्रपंचयन्नाह-
२६६
d
काइयवाइयमाणसि-
ओत्ति अतिविहो दु पंचमो विणओ । पुण सव्वो दुविहो 'पचक्खो तह परोक्खा य ॥ १७५ ॥
कायिकवाचिकमानसिक
इति च त्रिविधस्तु पञ्चमो विनयः । स पुनः सर्वो द्विविधः
प्रत्यक्षस्तथा परोक्षश्च ॥ १७५ ॥
काये भवः कायिकः । वाचि भवो वाचिकः । मनसि भवो मानसिकः । त्रिविधस्त्रिमकारस्तु पंचमो विनयः । स्वर्गमोक्षादीन् विशेषेण नयतीति विनयः । कायाश्रयो वागश्रयो मानसाश्रयश्चेति । स पुनः सर्वोऽपि कायिको वाचिको मानसिकश्च द्विविधो द्विप्रकार: प्रत्यक्षश्चैव परोक्षश्च । गुरोः प्रत्यक्षश्चक्षुरादिविषयः । चक्षुरादिविषयादतिक्रान्तः परोक्ष इति ॥ १७५ ॥