________________
पंचाचाराधिकारः ॥५॥
२६३ द्वादशांगचतुर्दशपूर्वाणां कालशुद्धया पठनं व्याख्यानं परिवर्तनं वा । तथा हस्तपादौ प्रक्षाल्य पर्यकेऽवस्थितस्याध्ययनं । अवग्रहविशेषेण पठनं । बहुपानं यत्पठति यस्माच्छृणोति तयोः पूजागुणस्तवनं । तथैवानिह्नवो यत्पठति यस्मात्पठति तयोः कीर्तनं । व्यञ्जनशुद्धं, अर्थशुद्धं व्यञ्जनार्थोपयशुद्धं च यत्पठनं । अनेन न्यायेनाष्टपकारो ज्ञाने विनय इति ॥
तथाणाणं सिक्खदि णाणं
गुणेदि गाणं परस्स उवदिसदि । णाणेण कुणदि णायं
णाणविणीदो हवदि एसो १७१ ज्ञानं शिक्षते ज्ञानं गुणयति ज्ञानं परस्य उपदिशति । ज्ञानेन करोति न्यायं ज्ञानविनीतो भवति एषः १७१
ज्ञानं शिक्षते विद्योपादानं करोति । ज्ञान गुणयति परिवर्तनं करोति । ज्ञानं परस्मै उपदिशति प्रतिपादयति । ज्ञानेन करोति न्यायमनुष्ठानं । य एवं करोति ज्ञानविनीतो भवत्येष इति । अथ दर्शनाचारदर्शनविनययोः को भेदस्तथा ज्ञानाचारज्ञानविनययोः कश्चन भेद इत्याशंकायापाह-शंकादिपरिणामपरिहारे यत्नः उपगृहनादिपरिणामानुष्ठाने च यत्नो दर्शनविनयः । दर्शनाचारः पुनः शंकाद्यभावेन तत्वश्रद्धा