________________
-२८६
मूलाचाररण-दातृविशेषग्रहणं पात्रविशेषग्रहणं च । यदि वृद्धो मां विधरेत तदानीं तिष्ठामि नान्यथा । अथवा बालो युवा स्त्री उपानत्करहितो वर्त्मनि स्थितोऽन्यथा वा विधरेत् तदानीं तिष्ठामीति। कांस्यभाजनेन रूप्यभाजनेन सुवर्णभाजनेन मृन्मयभा. जनेन वा ददाति तदा गृहीष्यामीति यदेवमायं । तथाशनस्य विविधस्य नानाप्रकारस्य यद्हणमवग्रहोपादानं, अद्य मकुष्ठं भोक्ष्ये नान्यत् । अथवाद्य मंडकान् सक्तून् ओदनं वा ग्रहीच्यामीति यदेवमाय ग्रहणं तत्सर्व वृत्तिपरिसंख्यानमिति १५८
कायक्लेशस्वरूपं विवृण्वन्नाहठाणसयणासणेहिं य
विविहेहिं य उग्गयेहिं बहुएहिं । अणुवीचीपरिताओ
कायकिलेसो हवदि एसो॥१५९ ॥ स्थानशयनासनैश्च विविधैश्चावग्रहैः बहुभिः । अनुवीचिपरितापः कायक्लेशः भवति एषः ॥ १५९ ।।
स्थानं कायोत्सर्ग । शयनमेकपार्श्वमृतकदण्डादिशयनं । आसनं उत्कुटिका-पर्यक-वीरासनमकरमुखाद्यासनं । स्थानशयनासनैर्विविधैश्चावग्रहधर्मोपकारहेतुभिरभिप्रायैर्बहुभिरनुवीचीपरितापा सूत्रानुसारेण कायपरितापो वृक्षमूलाभ्रावका