________________
पंचाचोराधिकारः ॥५॥ तृतीयव्रतस्य भावनास्वरूपं विकृण्वन्नाहजायणसमणुण्णमणा
अणण्णभावोवि चत्तपडिसेवी। साधम्मिओवकरण
स्सणुवीचीसेवणं चावि ॥ १४२॥ याञ्चा समनुज्ञापना अनन्यभावोपि त्यक्तप्रतिसेवी साधर्मिकोपकरणस्यानुवीचिसेवनं चापि ॥ १४२ ॥
याचा प्रार्थना समनुज्ञापना यस्य सम्बन्धि किंचिद्वस्तु -तमनुमन्य ग्रहणं गृहीतस्य वा सम्बोधनं । अनन्यभावोऽ दुष्टभावोऽनात्मभावः परवस्तुनः परिगृहीतस्यात्मभावो न कर्तव्यः। त्यक्तं श्रामण्ययोग्यं, अन्ये चार्थिनो न तस्य, सावद्यरहितं त्यक्तमित्युच्यते । अथवा वियत्त आचार्य इत्युच्यते । पतिसेवयतीति प्रतिसेवी । स प्रत्येकमभिसम्बध्यते । यांचया प्रतिसेवी समनुज्ञापनया प्रतिसेवी अनात्मभावप्रतिसेवी, निरवद्यस्य श्रावण्येयोग्यस्य त्यत्तस्याचार्यस्य वा प्रतिसवी । समानोधर्मोsनुष्ठानं यस्य सधर्मा तस्य यदुपकरणं पुस्तकपिच्छिकादि तस्यानुवीच्यागमानुसारेण सेवनं सधर्मोपकरणस्य सूत्रादकू. लतया सेवनं चापि । एताः पंच भावनास्तृतीयवूतस्य भव-न्तीति । एताभिरस्तेयाख्यं व्रतं सम्पूर्ण भवतीति ॥ १४२ ॥
चतुर्थव्रतस्य भावनास्वरूपं विकल्पयन्नाह