________________
२५०
मूलाचारे
मार्गोद्योतोपयोगालंबनशुद्धिभिः ईर्यतो मुनेः । सूत्रानुवीच्या भणिता ईर्यासमितिः प्रवचने ॥ १०५ सम्मार्गः पन्या: । उज्जोन - उद्योतचक्षुरादित्यादिप्रकाशः । उवओग-उपयोगो ज्ञानदर्शनविषयो यत्नः । श्रालंव - देवतानिर्ग्रन्थयतिधर्मादिकारं । एतेषां शुद्धयस्ताभिमार्गोद्योतोपयोगालम्बनशुद्धभितो गच्छतो मुनेः सूत्रानुवीच्या प्रायश्चित्तादिसूत्रानुसारेण प्रवचने ईर्यासमितिर्भगिता गणधरदेवादिभिर्भणितेति शेषः ।। १०५ ।। तावगमनं विचार्यत उत्तरगाथयेति - इरियावहपडिवण्णेणव लोगंतेण होदि गंतव्वं । पुरदो जुगप्पमाणं सयापमत्तेण संतेण ॥ १०६ ॥ ईयापथप्रतिपन्नेनावलोकयता भवति गंतव्यं । पुरतः युगपूमाणं सदा अप्रमत्तेन सता ॥ १०६ ॥
कैलाशोर्जयन्तचम्पापावादितीर्थयात्रा सन्यासदेवधर्मादिकारणेन शास्त्रश्रावणादिकेन वा समतिक्रमणश्रवणादिप्र योजनेन वोदिते सवितरि प्रकाशप्रकाशिताशेषदिगन्ते विशुद्धदृष्टिसंचारे विशुद्धसंस्तरप्रदेशे ईयपथमार्ग प्रतिपन्नेन समीहमानेन कृतस्वाध्यायप्रतिक्रमणदेववन्दनेन पुरतोऽयतो युगमात्रं हस्तचतुष्टयप्रमाणमवलोकयता सम्यक्पश्यता स्थूलास्थूजीवनप्रमत्तेन यत्नपरेण श्रुतशास्त्रार्थं स्मरता परिशुद्धमनो