________________
२४६
पंचाचाराधिकारः ॥५॥ तदेतदिन्द्रियमणिधानं नोइन्द्रियप्राणिधानं चाप्रशस्नमयुकं वर्जयेत् वर्जयितव्यमिति ॥ १०३॥
समितिगुप्तिविषयः प्रणिधानयोगोऽष्टविध आचारोक्त इति प्रतिपादितं ततः काः समितयो गुप्तयश्चेत्याशंकायामाहणिक्खेवणंच गहणं इरियाभासेसणा य समिदीओ पदिठावणियं च तहा उच्चारादीणि पंचविहा१०४ निक्षेपणं च ग्रहणं ईर्याभाषेषणाश्च समितयः। प्रतिष्ठापनं च तथा उच्चारादीनां पंचविधा ॥ १०४॥
निक्षेपणं निक्षेपः पुस्तिकाकुण्डिकादिव्यवस्थापनं । तेषामेव ग्रहणमादानं समीक्ष्य, सैषादाननिक्षेपणसमितिः । धर्मार्थिनो यनपरस्य गमनमीर्यासमितिः । सावधरहितभाषणं भाषासमितिः कृतकारितानुपतरहिताहारादानमशनसमितिः। . समितिशब्दः प्रत्येकमभिसम्बध्यते। उच्चारादीनां मत्रपुरीषादीनां प्रासुकादेशे प्रतिष्ठापनं त्यागः प्रतिष्ठापनासमितिः । इत्येवं पंचविधा समितिरिति ॥ १०४॥
तत्र तावदीर्यासमितिस्वरूपपपंचार्थमाहमग्गुजोवुपओगालंबणसुद्धीहि इरियदो मुणिणो सुत्ताणुवीचि भणियाइरियासमिदी पवयणम्मि॥