________________
पंचाचोराधिकारः ॥५॥
२४५ तेषां चैव व्रतानां रक्षार्थ रात्रिभोजननिवृत्तिः। अष्टौ च प्रवचनमातरश्च भावनाश्च सर्वाः ॥ ९८ ॥
तेषामेव महाव्रतानां रक्षणार्थ रात्रिभोजननिवृत्तिः रात्रौ भोजनं तस्य निवृत्ती रात्रिभोजननिवृत्तिः । बुभुक्षितोऽपि भोजनकालेऽतिक्रान्ते नैवाहारं चिन्तयति । नाप्युदकादिकं । अष्टौ प्रवचनमातृकाः पंच समितयस्त्रिगुप्तयः। भावनाश्च सर्वाः पंचविंशतयः महाव्रतानां पालनाय वक्ष्यन्त इति ॥ ९८॥
यते रात्रौ भोजनक्रियायां प्रविशतो दोषानाह-- तेसिं पंचण्हपि यन्हयाणमावजणं च संका वा। आदविवत्ती अ हवे रादीभत्तप्पसंगेण ॥ तेषां पंचानामपि चान्हवानामावर्जनं च शंका वा। आत्मविपत्तिश्च भवेत् रात्रिभक्तप्रसंगेन ॥ ९९॥
तेषां पंचानामप्यन्हवानां बतानापासमन्ताचावर्जन अंग- . म्लानता, आशङ्का वा लोकस्य किमितिकृत्वायं प्रवजितो रात्रौ प्रविष्टो दुरारेकः स्यात् । गृहस्थानामात्मविपत्तिश्च भवेत् । स्थाणुपशुचौरसारमेयनगररक्षकादिभ्यो रात्रिभक्तासंबेन रात्रावाहारार्थ पर्यटतस्तस्माद्रात्रिभोजनं त्याज्यमिति ॥९९॥
पंचविधमाचारं व्याख्याय समित्यादिद्वारेणाविधं ब्याख्यातुकामः प्राह--