________________
२४३
पंचाचाराधिकारः ॥५॥ आचित्तदेवमानुषातर्यग्जातं च मैथुनं चतुर्धा ।.. त्रिविधेन तत्न सेवते नित्यं अपि मुनिर्हि प्रयतमनाः
अचित्तं; चित्रलेप-पुस्त-भांड-शैल-वंधादिकर्मनिवर्तितस्त्रीरूपाणि, भवनवानव्यन्तरज्योतिष्ककल्पवासदेवस्त्रियः,वामणक्षत्रियवैश्यशूद्रस्त्रियश्च, वडवागोमहिष्यादितिरश्च्यश्च, एताभ्यो जातमुत्पन्न चतुर्धा मैथुनं रागोद्रेकात्कामाभि'ला त्रिविधेन मनोवचनकायकर्मभिः कृतकारितानुमतैस्तन्न सेवते । नित्यमपि मुनिः प्रयत्नमनाः । हि स्फुटं । स्वाध्यायपरो लोकव्यापाररहितः सर्वाः स्त्रीप्रतिमाः मातृदुहितभगिनीवत् चितेत् । नैकाकी ताभिः सहैकान्ते तिष्ठेत् । न वर्त्मनि गच्छेत् । न च रहसि मंत्रयेत् । नाप्येकाकी सन्नेकस्याः प्रतिक्रमणादिकं कुर्यात् । येन येन जुगुप्सा भवेत . तत्सर्व त्याज्यमिति ॥ ९५ ॥
पंचमव्रतमपंचनार्थमाहगामं णगरं रणं थूलं सच्चित्त बहु सपडिवक्खं । अज्झत्थ बाहिरत्थं तिविहेण परिग्गरं वजे ॥ ग्राम नगरं अरण्यं स्थूल सचित्तं बहु सप्रतिपक्षं । अध्यात्मबहिःस्थं त्रिविधेन परिग्रहं वर्जयेत् ॥९६ ॥
ग्राम, नगरं, अरण्यं, पत्तनं, मटंवादिकं च । स्थूलं-क्षेत्रगृहादिकं । सचिंत दासीदासगोमहिण्यादिकं । बहुमनेकमे