SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ पंचोचाराधिकारः ॥५॥ २४९ एकेंद्रियादिप्राणाः पंचविधावद्यभीरुणा सम्यक् । ते खलुन हिंसितव्याःमनोवाक्कायैः सर्वत्र ॥ ९२॥ __एकमिन्द्रियं येषां ते एकेन्द्रियाः, एकेन्द्रिया आदिर्येषां प्राणानां जीवानां त एकेन्द्रियादयः प्राणाः, ते कियन्तः पंचविधाः पंचप्रकारास्ते,खलु स्फुटं अवधभीरुशा सम्यग्विधानेन न हिसितव्याः, मनसा वचसा कायेन च सर्वत्र पीडा न कर्तव्या न कारयितव्या नानुमन्तव्येति । सर्वस्मिन् काले, सर्वस्मिन् देशे सर्वस्मिन्वा भावे चेति ॥ ९२ ॥ द्विनीयव्रतस्वरूपनिरूपणार्थमाहहस्सभयकोहलोहामणिवचिकायेण सबकालाम्म मोसं ण य भासिजो पच्चयघादी हवदि एसो॥ हास्यभयकोधलोभैः मनोवाकायैः सर्वकाले। मृषां न च भाषयेत् प्रत्ययघाती भवति एषः ॥ ९३॥ ___ हास्यमयलोभनोधैर्मनोवाक्कायप्रयोगेण सर्वस्मिन् कालेऽतीतानागतवर्तमानकालेषु मृषावाद-परपीडाकरं वचनं नो बदेव । यत एष मृषावादः प्रत्ययघाती भवतीति न कस्यापि विश्वासस्थानं जायते । अतो हास्यात्, क्रोधात्, भयाल्लोभादा परपीडाकरं वस्तुयाथात्म्यविपरीतप्रतिपादकं वचनं मनसा न चिन्तयेव, ताल्चादिव्यापारेण नोच्चारयेत, कायेन नानुष्ठापयेदिति ॥ ९३ ॥
SR No.022302
Book TitleMulachar Satik Part 01
Original Sutra AuthorN/A
AuthorPannalal Soni, Gajadharlal Shastri
PublisherManikchandra Digambar Jain Granthmala Samiti
Publication Year1921
Total Pages522
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy